शूलशब्दादुखाशब्दाच् च सप्तमीसमर्थात् संस्कृतं भक्षाः इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। अणो ऽपवादः। शूले संस्कृतं शूल्यं मांसम्। उख्यम्।
शूलोखात्। "संस्कृतं भक्षाः"इत्यनुवर्तते। कथम् "उख्योऽग्निः"इति। न ह्रसौ भक्ष इति चेत्()। अत्राहुः---दिगादित्वाद्भावार्थे यदिति।